Samaasah
Samaasah
Samaasah

Samaasah

Non-returnable
Rs.40.00
A study book, prepared by Vidwan G. Mahabaleshwara Bhat.
Choose Quantity
+ Add to Cart
Product Details
प्रास्ताविकं किश्चित् (प्रथममुद्रणस्य) । छात्राणाम् अध्यापकानां च उपकारकं भवेत् इति धिया लिखितम् इदं समासपुस्तकम् । छात्राः तावत् प्रायः समासभेदान् तेषाम् उदाहरणानि च ज्ञातुम् इच्छन्ति । अध्यापकाः समासस्य लक्षणं, विग्रहस्य स्वरूपं, पूर्वोत्तरयोः पदयोः जायमानान् विकारान् च सङ्केपेण अवगन्तुम् अभिलषन्ति । विषयस्य दाढयसम्पादनाय विभिन्नान् अभ्यासान् छात्राः विशेषेण वाञ्छन्ति । अतः एतादृशानाम् अपेक्षायाः अनुगुणम् इदं पुस्तकम् आरचितम् । समासो नाम कः ? को नाम विग्रहः ? समासभेदाः कति ? कानि च तेषाम् उदाहरणानि ? इत्येते अंशाः प्रथमे द्वितीये च प्रकरणे संक्षेपेण लिखिताः । टिप्पण्यः अपि क्वचित् आरचिताः। छात्राः एतत् प्रकरणद्वयं सावधानं पठित्वा समासस्य उदाहरणानि पुनः पुनः परिशील्य यदि स्मृतिपथे स्थापयन्ति तर्हि समासस्य विषये प्रायः क्लेशं न अनुभवेयुः। तृतीये प्रकरणे पूर्वोत्तरपदयोः विशेषाः निरूपिताः । लिङ्गानुसरणार्थम् अन्तव्यवस्थानिर्णयार्थं च मार्गदर्शनमपि अत्र संक्षेपेण कृतमस्ति । अनन्तरप्रकरणे समासभेदानां विस्तरेण निरूपणं कृतम् । ___ अस्मिन् पुस्तके विषयः पुनरुक्तः इव प्रतीयते । आदौ सङ्केपेण निरूपणं, पश्चात् विस्तरेण कथनम् इति क्रमः यदा आश्रीयते तदा पुनरुक्तता अनिवार्या भवति । केचन अंशाः तु पुनः पुनः उक्ताः, ये अंशाः अवश्यं स्मरणीयाः भवेयुः । द्वितीयप्रकरणे समासभेदनिरूपणावसरे प्रसिद्धानि सूत्राणि लिखितानि । किन्तु तेषाम् अर्थः न उक्तः । चतुर्थे प्रकरणे विस्तरेण निरूपणसमये तु सूत्रतात्पर्य लिखितम् । अधस्तात् सूत्राणि उल्लिखितानि । आवश्यकतायां सत्यां टिप्पणी तु विशेषतः लिखिता सर्वत्र । एतावता अपि समाससम्बन्धी सर्वोऽपि विषयः अत्र निरूपितः इति न । प्रायः प्रतिशतं सप्तत्यंशाः निरूपिताः स्युः । पुस्तके अस्मिन् अभ्यासपाठान् रचितवते श्री जनार्दनहेगडेमहोदयाय विशेषेण धन्यवादाः समर्प्यन्ते । कलाकारः, अक्षरसंयोजकः, मुद्रणालयाधिकारी, सर्वविधाः सहकारिणः चापि कृतज्ञतापूर्वकं स्मर्यन्ते । भाव सं ।। श्रावणपूर्णिमा - लेखकः २१.८.९४ (पञ्चदशमुद्रणस्य) पुस्तकस्यास्य उपयोगयोग्यता बहुभिः विद्वद्भिः अध्यापकवर्यैः च बहुधा प्रशंसिता । इदानीम् एतस्य पञ्चदशं मुद्रणं यत् प्रचलत् अस्ति तत् तु महते सन्तोषाय । सहकृतवन्तः सर्वे धन्यवादार्हाः । विकारि सं ।। आश्वयुजशुक्लचतुर्थी - प्रकाशकः ०२.१०.२०१९
Added to cart
- There was an error adding to cart. Please try again.
Quantity updated
- An error occurred. Please try again later.
Deleted from cart
- Can't delete this product from the cart at the moment. Please try again later.